ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः
भगवती पुरातनपुरेश्वरीस्तवः
श्रीललितालकारादिशतनामजपसाधना -
श्रीललितायै नमः ।
श्रीलक्ष्म्यै नमः ।
श्रीलोलाक्ष्यै नमः ।
श्रीलक्ष्मणायै नमः ।
श्रीलक्ष्मणार्चितायै नमः ।
श्रीलक्ष्मणप्राणरक्षिण्यै नमः ।
श्रीलाकिन्यै नमः ।
श्रीलक्ष्मणप्रियायै नमः ।
श्रीलोलायै नमः ।
श्रीलकारायै नमः । १०
श्रीलोमशायै नमः ।
श्रीलोलजिह्वायै नमः ।
श्रीलज्जावत्यै नमः ।
श्रीलक्ष्यायै नमः ।
श्रीलाक्ष्यायै नमः ।
श्रीलक्षरतायै नमः ।
श्रीलकाराक्षरभूषितायै नमः ।
श्रीलोललयात्मिकायै नमः ।
श्रीलीलायै नमः ।
श्रीलीलावत्यै नमः । २०
श्रीलाङ्गल्यै नमः ।
श्रीलावण्यामृतसारायै नमः ।
श्रीलावण्यामृतदीर्घिकायै नमः ।
श्रीलज्जायै नमः ।
श्रीलज्जामत्यै नमः ।
श्रीलज्जायै नमः ।
श्रीललनायै नमः ।
श्रीललनप्रियायै नमः ।
श्रीलवणायै नमः ।
श्रीलवल्यै नमः । ३०
श्रीलसायै नमः ।
श्रीलाक्षिव्यै नमः ।
श्रीलुब्धायै नमः ।
श्रीलालसायै नमः ।
श्रीलोकमात्रे नमः ।
श्रीलोकपूज्यायै नमः ।
श्रीलोकजनन्यै नमः ।
श्रीलोलुपायै नमः ।
श्रीलोहितायै नमः ।
श्रीलोहिताक्ष्यै नमः । ४०
श्रीलिङ्गाख्यायै नमः ।
श्रीलिङ्गेश्यै नमः ।
श्रीलिङ्गगीत्यै नमः ।
श्रीलिङ्गभवायै नमः ।
श्रीलिङ्गमालायै नमः ।
श्रीलिङ्गप्रियायै नमः ।
श्रीलिङ्गाभिधायिन्यै नमः ।
श्रीलिङ्गायै नमः ।
श्रीलिङ्गनामसदानन्दायै नमः ।
श्रीलिङ्गामृतप्रीतायै नमः । ५०
श्रीलिङ्गार्चिनप्रीतायै नमः ।
श्रीलिङ्गपूज्यायै नमः ।
श्रीलिङ्गरूपायै नमः ।
श्रीलिङ्गस्थायै नमः ।
श्रीलिङ्गालिङ्गनतत्परायै नमः ।
श्रीलतापूजनरतायै नमः ।
श्रीलतासाधकतुष्टिदायै नमः ।
श्रीलतापूजकरक्षिण्यै नमः ।
श्रीलतासाधनसिद्धिदायै नमः ।
श्रीलतागृहनिवासिन्यै नमः । ६०
श्रीलतापूज्यायै नमः ।
श्रीलताराध्यायै नमः ।
श्रीलतापुष्पायै नमः ।
श्रीलतारतायै नमः ।
श्रीलताधारायै नमः ।
श्रीलतामय्यै नमः ।
श्रीलतास्पर्शनसन्त्ष्टायै नमः ।
श्रीलताऽऽलिङ्गनहर्षतायै नमः ।
श्रीलताविद्यायै नमः ।
श्रीलतासारायै नमः । ७०
श्रीलताऽऽचारायै नमः ।
श्रीलतानिधये नमः ।
श्रीलवङ्गपुष्पसन्तुष्टायै नमः ।
श्रीलवङ्गलतामध्यस्थायै नमः ।
श्रीलवङ्गलतिकारूपायै नमः ।
श्रीलवङ्गहोमसन्तुष्टायै नमः ।
श्रीलकाराक्षरपूजितायै नमः ।
श्रीलकारवर्णोद्भवायै नमः ।
श्रीलकारवर्णभूषितायै नमः ।
श्रीलकारवर्णरुचिरायै नमः । ८०
श्रीलकारबीजोद्भवायै नमः ।
श्रीलकाराक्षरस्थितायै नमः ।
श्रीलकारबीजनिलयायै नमः ।
श्रीलकारबीजसर्वस्वायै नमः ।
श्रीलकारवर्णसर्वाङ्ग्यै नमः ।
श्रीलक्ष्यछेदनतत्परायै नमः ।
श्रीलक्ष्यधरायै नमः ।
श्रीलक्ष्यघूर्णायै नमः ।
श्रीलक्षजापेनसिद्धिदायै नमः ।
श्रीलक्षकोटिरूपधरायै नमः । ९०
श्रीलक्षलीलाकलालक्ष्यायै नमः ।
श्रीलोकपालेनार्चितायै नमः ।
श्रीलाक्षारागविलोपनायै नमः ।
श्रीलोकातीतायै नमः ।
श्रीलोपमुद्रायै नमः ।
श्रीलज्जाबीजस्वरूपिण्यै नमः ।
श्रीलज्जाहीनायै नमः ।
श्रीलज्जामय्यै नमः ।
श्रीलोकयात्राविधायिन्यै नमः ।
श्रीलास्यप्रियायै नमः । १००
श्रीलयकर्यै नमः ।
श्रीलोकलयायै नमः ।
श्रीलम्बोदर्यै नमः ।
श्रीलघिमादिसिद्धिदात्र्यै नमः ।
श्रीलावण्यनिधिदायिन्यै नमः ।
श्रीलकारवर्णग्रथितायै नमः ।
श्रीलँबीजायै नमः ।
श्रीललिताम्बिकायै नमः । १०८
इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक
श्रीमल्ललिताया लकारादिशतनामावलिः समाप्ता ।